CALL US: +91 9414589510

MAIL US : info@aarshgurukulabu.co.in

संस्कृतभारती गुजरातक्षेत्रस्य द्विदिवसीया संगोष्ठी सितम्बर मासस्य गत ११-१२ दिनांके गुरुकुले सम्पन्ना

आर्यसमाजसंस्था द्वारा संचालिते आर्ष गुरुकुल-महाविद्यालय आबूपर्वते संस्कृतभारती गुजरातसौराष्ट्र प्रान्तयो: चिंतनसंगोष्ठी आयोजिता। गोष्ठ्यां ४० दायित्ववन्त: कार्यकर्तार: उपस्थिता:

आगतानां सर्वेषाम् अतिथिमहानुभावानां गुरुकुलपरिवारत: अभिनंदनं जातम्🏵️ उद्घाटनसमारोहे वैदिकमंत्रोच्चारेण सह दीपप्रज्वलनं कृत्वा संगोष्ठी आरब्धा। गुरुकुलस्य ब्रह्मचारिण: स्वागतगीतम् गीतवन्त:।

गुजरात विश्वविद्यालयस्य संस्कृतविभागाध्यक्ष: गुरुकुलन्यासस्य च महामन्त्री प्रोफेसर कमलेशकुमारशास्त्रीवर्येण प्रेषितं स्वागतपद्यं डॉ. भावप्रकाश: पठितवान्।

गुरुकुल-छात्र-परिषदः प्रचारमन्त्री आचार्य गगेन्द्रार्य: गुरुकुलस्य परिचयं प्रस्तुतवान्। गुरुकुलस्य अध्यक्ष: मुख्यवक्तृरूपेण समुपस्थितः आचार्य ओम्प्रकाश: महाभागः उक्तवान् यत् संस्कृतभाषाया: प्राचीनतमा: ग्रन्था: वेदा: सन्ति। आर्यसमाजस्य संस्थापकेन महर्षिणा दयानन्दसरस्वतिना लिखितस्य वेदभाष्यस्य वर्तमानसमये पाठनमतीवावश्यकम्। यतोहि सायण-महीधरादिभिः आचार्यैः प्रवर्तिते वेदभाष्ये मन्त्राणां सर्वथा कर्मकाण्डैकत्व-विनियमनात् तेषां अवैज्ञानिकत्वं सिद्धत्वाच्च यथार्थस्वरूपं नावगन्तुं शक्यम्। अतः स्वामीदयानन्देन विलिखितेन वेदभाष्येणैव वेदमन्त्राणां यथार्थस्वरूपमवगन्तुं शक्यते। एतदर्थं महर्षिदयानन्दकृतवेदभाष्यस्यैव पाठः सर्वत्र महाविद्यालयेषु विश्वविद्यालयेषु च पाठनीयमिति। आचार्यमहाभागेन संस्कृत प्रचार-प्रसारे सहयोगार्थं सर्वेषाम् उत्साहवर्धनं कृतम्। सार्वदेशिक आर्य प्रतिनिधि सभाया: प्रधान: गुरुकुल न्यासस्य च सदस्य सुरेशचन्द्र अग्रवालस्य सुपुत्र: श्री विनीत: आर्येण (कर्णावतीम्) , गुरुकुलस्य अध्यापकेन डॉ.स्वामी महाचैतन्यमुनिना, आचार्य शिवकान्तेन,आचार्य ओम्प्रकाशेण च मंचस्थेभ्यः अतिथिभ्यः सम्मानरुपेण 📚 वैदिकसाहित्यं उपवस्त्रञ्च उपायनीकृतम्।

एतस्मिन् अभ्यासवर्गे संस्कृतभारत्या: अखिलभारतीय सङ्घटनमन्त्री माननीय दिनेशकामत:,पश्चिमक्षेत्रसङ्घटनमन्त्री श्री हिमाञ्जयपालीवाल:, गुर्जरप्रान्ताध्यक्ष: डॉ.कृष्णप्रसादनिरौला, गुजरातसंस्कृतपरिषदाध्यक्ष: सौराष्ट्रप्रान्ताध्यक्षश्च श्रीजयशंकररावल इत्यादय: मार्गदर्शनं कृतवन्त:।

एतै: पदाधिकारिभि: आचार्याय ओम्प्रकाशमहोदयाय महान् वैयाकरण: महर्षिपाणिने: चित्रं समर्पितम्।

गुरुकुले अध्ययनरतानां ब्रह्मचारिणाम् अष्टाध्यायीग्रन्थस्य सूत्राणाम् अन्त्याक्षरीप्रतियोगितां ,संस्कृतप्रवचनं च श्रुत्वा सर्वे अचम्भिता:। व्यायामप्रदर्शनं,वैदिकशिक्षया सह आधुनिकविषयाणां समावेशं, व्यवस्थितदिनचर्यां च दृष्ट्वा सर्वे प्रशंसितवन्त:।

प्रातः- सायम् आयोजितयज्ञे🔥 सर्वे आहुतिं समर्पितवन्त:।परिसरस्थिते भव्ययज्ञशालां, समृद्धगोशालां, विशालपुस्तकालयं, व्यायामशालां, गुहां दृष्ट्वा ⛈️वृष्टिकाले🏞️ प्राकृतिकसौन्दर्यं च दृष्ट्वा सर्वे आनन्दिता जाता ।

गुरुकुलस्य विकासाय ३५००० ₹ सहयोगं दत्तवन्त:। भविष्येऽपि पुनरागमनाय उक्तवन्त: